|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.112. अध्यायः 112
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति गोसामान्योत्पत्तिप्रकारकथनपूर्वकं कपिलोत्पत्तिप्रकारकथनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
वैशम्पायन उवाच।
ततो युधिष्ठिरे राजा भूयः शान्तनवं नृपम्।
गोदानविस्तरं धीमान्पप्रच्छ विनयान्वितः॥ 13-112-1(85872)
गोप्रदानगुणान्सम्यक् पुनर्मे ब्रूहि भारत।
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम्॥ 13-112-2(85873)
इत्युक्तो धर्मराजेन तदा शान्तनवो नृपः।
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान्॥ 13-112-3(85874)
भीष्म उवाच। 13-112-4x(7119)
वत्सलां गुणसम्प्रन्ना तरुणीं वस्त्रसंयुताम्।
दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते॥ 13-112-4(85875)
असुर्या नाम ते लोका गां दत्त्वा तान्न गच्छति। 13-112-5(85876)
पीतोदकां जग्धतृणां नष्टक्षीरां निरिन्द्रियाम्।
जरारोगोपसम्पन्नां जीर्णां वापीमिवाजलाम्।
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत्॥ 13-112-6(85877)
रुष्टा दुष्टा व्याधिता दुर्बला वा
नो दातव्या याश्च मूल्यैरदत्तैः।
क्लेशैर्विप्रं योऽफलैः संयुनक्ति
तस्याऽवीर्याश्चाफलाश्चैव लोकाः॥ 13-112-7(85878)
बलान्विताः शीलवीर्योपपन्नाः
सर्वे प्रशंसन्ति सुगन्धवत्यः।
यथा हि गङ्गा सरितां वरिष्ठा
तथाऽर्जुनीनां कपिला वरिष्ठा॥ 13-112-8(85879)
युधिष्ठिर उवाच। 13-112-9x(7120)
कस्मात्समाने बहुलाप्रदाने
सद्भिः प्रशस्तं कपिलाप्रदानम्।
विशेषमिच्छामि महाप्रभावं
श्रोतुं समर्थोस्मि भवान्प्रवक्तुम्॥ 13-112-9(85880)
भीष्म उवाच। 13-112-10x(7121)
वृद्धानां ब्रुवतां श्रुत्वा कपिलानामथोद्भवम्।
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा॥ 13-112-10(85881)
प्रजाः सृजेति चादिष्टः पूर्वं दक्षः स्वयंभुवा।
नासृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया॥ 13-112-11(85882)
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः।
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो॥ 13-112-12(85883)
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः।
ब्राह्मणाश्च ततः श्रेष्ठास्तषु यज्ञाः प्रतिष्ठिताः॥ 13-112-13(85884)
यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः।
ताभ्यो देवाः प्रमोदन्ते प्रजानां वृत्तिरासु च॥ 13-112-14(85885)
ततः प्रजासु सृष्टासु दक्षाद्यैः क्षुधिताः प्रजाः।
प्रजापतिमुपाधावन्विनिश्चित्य चतुर्मखम्॥ 13-112-15(85886)
प्रजातान्येव भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया।
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत्॥ 13-112-16(85887)
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः।
प्रजापतिर्बलाधानममृतं प्रापिबत्तदा।
शंसतस्तस्य तृप्तिं तु गन्धात्सुरभिरुत्थिता॥ 13-112-17(85888)
मुखजा साऽसृजद्धातुः सुरभिर्लोकमातरम्।
दर्शनीयरसं वृत्तिं सुरभिं मुखजां सुताम्॥ 13-112-18(85889)
साऽसृजत्सौरभेयीस्तु सुरभिर्लोकमातृकाः।
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः॥ 13-112-19(85890)
तासाममृतवृत्तीनां क्षरन्तीनां समन्ततः।
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः॥ 13-112-20(85891)
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः।
शिरस्यवापतत्क्रुद्धः स तदैक्षत च प्रभुः।
ललाटप्रभवेणाक्ष्णा रोहिणीं प्रदहन्निव॥ 13-112-21(85892)
तत्तेजस्तु ततो रौद्रं कपिलां गां विशाम्पते।
नानावर्णत्वमनयन्मेघानिव दिवाकरः॥ 13-112-22(85893)
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः।
यथोत्पन्नाः स्ववर्णस्था न नीताश्चान्यवर्णतां॥ 13-112-23(85894)
अथ क्रुद्धं महादेवं प्रजापतिरभाषत।
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम्॥ 13-112-24(85895)
यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः।
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः॥ 13-112-25(85896)
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः।
नामृतेनामृतं पीतं न वत्सैर्दुष्यते पयः॥ 13-112-26(85897)
इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्रवेण च।
आसामैश्वर्यमिच्छन्ति सर्वेऽमृतमयं शुभम्॥ 13-112-27(85898)
वृषभं च ददौ तस्मै भगवाँल्लोकभावनः।
प्रसादयामास मनस्तेन रुद्रस्य भारत॥ 13-112-28(85899)
प्रीतश्चापि महादेवश्चकार वृषभं तदा।
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः॥ 13-112-29(85900)
ततो देवैर्महादेवस्तदा पशुपतिः कृतः।
ईश्वरः स गवां मध्ये वृषभाङ्कः प्रकीर्तितः॥ 13-112-30(85901)
एवमव्यग्रवर्णानां कपिलानां महौजसाम्।
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः॥ 13-112-31(85902)
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता
रुद्रोद्भूताः सोमविष्यन्दभूताः।
सौम्याः पुण्याः कामदाः प्राणदाश्च
गा वै दत्त्वा सर्वकामप्रदः स्यात्॥ 13-112-32(85903)
इदं गवां प्रभवविधानमुत्तमं
पठन्सदा शुचिरपि मङ्गलप्रियः।
विमुच्यते कलिकलुषेण मानवः
प्रियान्सुतान्धनपशुमाप्नुयात्सदा॥ 13-112-33(85904)
हव्यं कव्यं तर्पणं शान्तिकर्म
यानं वासो वृद्धबालस्य तुष्टिः।
एतान्सर्वान्गोप्रदाने गुणान्वै
दाता राजन्नाप्नुयाद्वै सदैव॥ 13-112-34(85905)
वैशम्पायन उवाच। 13-112-35x(7122)
पितामहस्याथ निशम्य वाक्यं
राजा सह भ्रातृभिराजमीढः।
सुवर्णवर्णानडुहस्तथा गाः
पार्थो ददौ ब्राह्मणसत्तमेभ्यः॥ 13-112-35(85906)
तथैव तेभ्योपि ददौ द्विजेभ्यो
गवां सहस्राणि शतानि चैव।
यज्ञान्समुद्धिश्य च दक्षिणार्थे
लोकान्विजेतुं परमां च कीर्तिम्॥ ॥ 13-112-36(85907)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वादशाधिकशततमोऽध्यायः॥ 112 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-112-6 अनन्ता नाम ते लोका गां दत्त्वा यत्र गच्छतीति थ.ध.पाठः॥ 7-112-11 पीतोदकां त्यक्ततृणामिति थ.ध.पाठः॥ 7-112-20 असृजद्वृत्तिमेवाग्र इति झ.पाठः॥ 7-112-23 स्रवन्तीनां नदीनां॥ 7-112-26 ता ह्येता नान्यवर्णगा इति ट.थ.ध.पाठः॥ 7-112-35 न सुवर्णं घृतं दधीति थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|